top of page
माणिकेश्वरी-स्तवनम् (हरेकृष्णमेहेरविरचितम्) | Maniikeshvari stavanam
श्रीमाणिकेश्वरी-स्तवनम्
कलाहाण्डि-मण्डलानामधिष्ठात्री शुभङ्करी ।
जयत्यम्बा लोकवन्द्या देवी श्रीमाणिकेश्वरी ॥ १॥
कल्याणानां मधुर-सरणी शक्तिरूपा शिवानी
हे शर्वाणि ! त्वमसि तमसां नाशयित्री भवानी ।
देहि ज्ञानं कुरु सुकरुणां मे हर स्वान्त-मोहं
श्रीमाणिक्येश्वरि ! भगवतीं त्वां सुभक्त्या नतोऽहम् ॥ २॥
पुष्पदीपादि-चर्चितां भक्तमङ्गल-दायिनीम् ।
नमामि माणिकेश्वरीं शोकसन्ताप-नाशिनीम् ॥ ३॥
दशहरा-पर्वमध्ये महानवमी-पूजिताम् ।
नौमि श्रीमाणिकेश्वरीं छत्रयात्रा-विराजिताम् ॥ ४॥
त्वं शक्तिदात्री ममतामयी त्वं
प्रसीद…